|
North
Indian Inscriptions |
|
|
INSCRIPTIONS OF THE PARAMARAS OF MALWA
HARSAUDA STONE INSCRIPTION OF THE TIME DEVAPALA
वाताभ्रविभ्रममिदं वसुधाधिपत्यम्
श्र्पापातमात्रमधुरो विषयोपभोग : ।
प्राणास्तृणाग्रजलबिन्दुसमा नराणां
धर्मः सखा परमहो परलोकयाने ॥२०॥
इति सर्व विमृश्याऽदृष्टफलमङ्गीकृत्य मुक्तावस्थूस्थानविनिर्गताय वाजसनेयशाखाध्यायिने काश्यपगोत्राय काश्यपावत्सारनै-
ध्रुएतित्रिप्रवरायाऽऽवसथिकदेल्हप्रपौत्राय पण्डितसोमदेवपौत्राय पण्डितजैत्रसिंहपुत्राय पुरोहितपण्डितश्रीगोविन्दशर्मणे ब्राह्मणय
भूमिरियं चतुःकङ्कट
[1]
विशुद्धासवृक्षमालाकुला सहिरण्यभागभोगा सोपरिकरघट्टादायालवणादायेत्यादिसर्वादायसमेता सनिधिनिक्षेपा
मातापित्रोरात्मनश्च पुण्ययाशोभिवृद्धये चन्द्रार्कार्णवक्षितिसमकालं यावत् यरया भक्त्या शासनेनोदकपूर्वं प्रदत्ता ।
तन् मत्वा तन्निवासिपट्टकिलजनपदैर्यथादीयमानभागभोगकरहिरण्यादिकमाज्ञाविधेयैर्भूत्वा सर्वममुष्मै दातव्यम् ।
सामान्य चैतत्पुण्यफलं बुध्वाऽस्मद्वंशजैरपि भाविभोक्तृभिरस्मत्प्रदत्तधर्मा(र्म)दायोऽयमनुमन्तव्यः पालनीयश्च । उक्तं च ।
बहुभिर्वसुधा भुक्ता रजभिः सगरादिभिः ।
यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम् ॥२१॥
स्वदत्तां परदत्तां वा यो हरेत वसुन्धराम् ।
स विष्ठायां कृमिर्भूत्वा पितृभिः सह मज्ज्जति ॥सर्वानेवं भाविनो भुमिपालान्
भूयो भूयो याचते रामचन्द्रः ।
सामान्योऽयं धर्मसेतुर्नराणां
काले काले पालनीयो भवद्भः ॥
इति कमलदलाम्बुबिन्दुलोलां
श्रियमनुचिन्त्य मनुष्यजीवितं च ।
सकलमिदमुदाहृतं च बुध्वा
न हि पुरुषैः परकीर्तयो विलोप्याः ॥२४॥ इति । संवत् १२७२ भाद्रपद सुदि १२ बुधे ।छ। श्री
मु ३ । रचितमिदं महासान्धि० रजासलखणसम्मतेन राजगुरुणा मदनेन ।
स्वहस्तोऽयं महाराजश्रीश्र्पर्जुनवर्मदेवस्य ।
उत्कीर्ण पं
[2]
बाप्यदेवेन ।
No. 50 ; PLATE XLVIII
HARSAUDĀ STONE INSCRIPTION OF THE TIME OF DĒVAPĀLA
[Vikrama] Year 1257
...THIS inscription is engraved on a stone slab which was found in the ruins of a temple at
Harsaudā, or Harsūd,
[3]
in the Harsūd parganā of the East Nēmāḍ District in Madhya
Pradesh, some time in the sixth decade of the last century. It was discovered by FitzEdward Hall, who brought it to light by publishing his own transcript and translation thereof.
_______________________________________
Read chatushkaṅkaṭa.
I.e., Paṇḍita.
Situated in Long. 76o 44’ E : Lat. 22o 6’ N.,. it is a station 53 kms. east of Khaṇḍwā on the Bombay-Iṭārsī section of the Central Railway. In Kielhorn’s time the place was known as Harsaudā and was included in the Hoshaṅgābād District.
|
\D7
|